वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अहमीयुराङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

न꣡ त्वा꣢ श꣣तं꣢ च꣣ न꣢꣫ ह्रुतो꣣ रा꣢धो꣣ दि꣡त्स꣢न्त꣣मा꣡ मि꣢नन् । य꣡त्पु꣢ना꣣नो꣡ म꣢ख꣣स्य꣡से꣢ ॥१२१५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् । यत्पुनानो मखस्यसे ॥१२१५॥

मन्त्र उच्चारण
पद पाठ

न । त्वा꣣ । शत꣢म् । च꣣ । न꣢ । ह्रु꣡तः꣢꣯ । रा꣡धः꣢꣯ । दि꣡त्स꣢꣯न्तम् । आ । मि꣣नन् । य꣢त् । पु꣣नानः꣢ । म꣣खस्य꣡से꣢ ॥१२१५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1215 | (कौथोम) 5 » 1 » 7 » 3 | (रानायाणीय) 9 » 5 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में दानवीर परमात्मा तथा दानी मनुष्य को सम्बोधन है।

पदार्थान्वयभाषाः -

हे दानवीर परमात्मन् वा दानी मनुष्य ! (यत्) जब (पुनानः) हमें पवित्र करते हुए आप (मखस्यसे) दानयज्ञ करने का संकल्प करते हो, तब (राधः) धन (दित्सन्तम्) दान करना चाहते हुए (त्वा) आपको (शतं च न) सौ भी (ह्रुतः) हमारे कुटिल भाव वा कुटिल जन (न आमिनन्) दान के मार्ग से विचलित नहीं कर सकते ॥३॥

भावार्थभाषाः -

जगदीश्वर उन्हीं को अपने दान का पात्र बनाता है, जो कुटिल नहीं हैं। दानवीर लोगों को चाहिए कि वे बाधक विघ्नों के बार-बार प्रहार होने पर भी अपने दान के व्रत को न छोड़ें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ दानवीरः परमात्मा मानवश्च सम्बोध्यते।

पदार्थान्वयभाषाः -

हे दानवीर परमात्मन् मानव वा ! (यत्) यदा (पुनानः) अस्मान् पवित्रान् कुर्वाणः त्वम् (मखस्यसे२) दानयज्ञं कर्तुं कामयसे। [मखमात्मन इच्छति इति मखस्यते। क्यचि ‘सुग् वक्तव्यः’। अ० ७।१।५१ वा० इत्यनेन सुगागमः।] तदा (राधः) धनम् (दित्सन्तम्) दातुमिच्छन्तम् (त्वा) त्वाम् (शतं च न) शतसंख्याका अपि (ह्रुतः) अस्माकं कुटिला भावाः कुटिला जना वा। [ह्वरन्ति कुटिलमाचरन्तीति ह्रुतः। ह्वृ कौटिल्ये, क्विपि ह्वरः ह्रुः आदेशः तुगागमश्च।] (न आ मिनन्) दानमार्गात् न विचालयितुं शक्नुवन्ति। [मिनातिः वधकर्मा। निघं० २।१९। लेटि रूपम्] ॥३॥

भावार्थभाषाः -

जगदीश्वरोऽकुटिलानेव जनान् दानपात्रं कुरुते। दानशौण्डा जना बाधकैर्विघ्नैः पुनः पुनः प्रतिहन्यमाना अपि स्वकीयं दानव्रतं न परित्यजेयुः ॥३॥

टिप्पणी: १. ऋ० ९।६१।२७। २. मखस्यसे धनं दातुमिच्छसि—इति सा०। यज्ञसमये यज्ञं त्वं यदा करोषि—इति वि०।